|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.52. अध्यायः 052
Mahabharata - Shanti Parva - Chapter Topics
प्ररेद्युः प्रभाते कृष्णयुधिष्ठिरादिभिर्धर्मश्रवणाय भीष्मसमीपगमनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-52-0x(5459)(66810)
ततः प्रविश्य भवनं प्रविश्ये मधुसूदनः।
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत॥ 12-52-1(66811)
स ध्यानपथमाविश्य सर्वज्ञानानि माधवः।
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम्॥ 12-52-2(66812)
सूताः स्तुतिपुराणज्ञा रक्तकण्ठाः सुशिक्षिताः।
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम्॥ 12-52-3(66813)
पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः।
शङ्खानथ मृदङ्गांश्च प्रवाद्यन्ति सहस्रशः॥ 12-52-4(66814)
वीणापणववेणूनां स्वनश्चातिमनोरमः।
सहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनि॥ 12-52-5(66815)
ततो युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः।
उच्चेरुर्मधुरा वाचो गीतवादित्रबृंहिताः॥ 12-52-6(66816)
तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः।
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान्॥ 12-52-7(66817)
ततः सहस्रं विप्राणां चतुर्वेदविदां तथा।
गवां सहस्रेणैकैकं वाचयामास माधवः॥ 12-52-8(66818)
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च।
आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत्॥ 12-52-9(66819)
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम्।
अपि सञ्जो महातेजा भीष्मं द्रष्टुं युधिष्ठिरः॥ 12-52-10(66820)
ततः कृष्णस्य वचनात्सात्यंकिस्त्वरितो ययौ।
उपगम्य च राजानं युधिष्ठिरमभाषत॥ 12-52-11(66821)
युक्तो रथवरो राजन्वासुदेवस्य धीमतः।
समीपमापगेयस्य प्रयास्यति जनार्दनः॥ 12-52-12(66822)
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते।
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति॥ 12-52-13(66823)
एवमुक्तः प्रत्युवाच धर्मपुत्रो युधिष्ठिरः।
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते॥ 12-52-14(66824)
न सैनिकैश्च यातव्यं यास्यामो वयमेव हि।
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः॥ 12-52-15(66825)
अतः पुरःसराश्चापि निवर्तन्तु धनञ्जय।
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति।
अतो नेच्छामि कौन्तेय पृथग्जनसमागमम्॥ 12-52-16(66826)
वैशम्पायन उवाच। 12-52-17x(5460)
स तद्वाक्यमथाज्ञाय कुन्तीपुत्रो धनञ्जयः।
युक्तं रथवरं तस्मा आचचक्षे नरर्षभः॥ 12-52-17(66827)
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि।
भूतानीव समस्तानि ययुः कृष्णनिवेशनम्॥ 12-52-18(66828)
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु।
शैनेयसहितो धीमान्रथमेवान्वपद्यत॥ 12-52-19(66829)
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम्।
मेघघोषै रथवरैः प्रययुस्ते नरर्षभाः॥ 12-52-20(66830)
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेवच।
दारुकश्चोदयामास वासुदेवस्य वाजिनः॥ 12-52-21(66831)
ते हया वासुदेवस्य दारुकेण प्रचोदिताः।
गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा॥ 12-52-22(66832)
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः।
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन्॥ 12-52-23(66833)
ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः।
आस्ते महर्षिभिः सार्ध्रं ब्रह्मा देवगणैर्यथा॥ 12-52-24(66834)
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः।
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च।
ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान्॥ 12-52-25(66835)
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः।
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः॥ 12-52-26(66836)
शरतल्पे शयानं तमादित्यं पतितं यथा।
स ददर्श महाबाहुं भयाच्चागतसाध्वसः॥ ॥ 12-52-27(66837)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विपञ्चाशोऽध्यायः॥ 52॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-52-9 मङ्गलानां गवादीनामालम्भनं स्पर्शम्॥ 12-52-27 आगतसाध्वसः भयजन्यकम्पादिमान्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|